|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.24. अध्यायः 024
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेनार्जुनंप्रति प्राणापानादीनां स्वस्वश्रैष्ठ्यप्रकारकविवादादिप्रतिपादकब्राह्मणदंपतिसंवादानुवादः॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
ब्राह्मण उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
सुभगे पञ्चहोतॄणां विधानमिह यादृशम्॥ 14-24-1(93082)
प्राणापानवुदानश्च समानो व्यान एव च।
पञ्चहोतॄंस्तथैतान्वै परं भावं विदुर्बुधाः॥ 14-24-2(93083)
ब्राह्मण्युवाच। 14-24-3x(7817)
स्वबावात्सप्तहोतार इति मे पूर्विका मतिः।
यथा वै पञ्च होतारः परो भावस्तदुच्यताम्॥ 14-24-3(93084)
ब्राह्मण उवाच। 14-24-4x(7818)
प्राणेन सम्भृतो वायुरपानो जायते ततः।
अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते॥ 14-24-4(93085)
व्यानेन सम्भृतो वायुस्ततोदानः प्रवर्तते।
उदाने सम्भृतो वायुः समानो नाम जायते॥ 14-24-5(93086)
तेऽपृच्छन्त पुरो गत्वा पूर्वजातं पितामहम्।
यो नः श्रेष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति॥ 14-24-6(93087)
ब्रह्मोवाच। 14-24-7x(7819)
यस्मिन्प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे।
यस्मिन्प्रवृत्ते च पुनश्चरन्ति
स वै श्रेष्ठो गच्छत यत्र कामः॥ 14-24-7(93088)
प्राण उवाच। 14-24-8x(7820)
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे।
मयि प्रवृत्ते च पुनश्चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥ 14-24-8(93089)
ब्राह्मण उवाच। 14-24-9x(7821)
प्रामः प्रालीयत ततः पुनश्च प्रचचार ह।
समानश्चाप्युदानश्च वचो ब्रूतां पुनः शुभे॥ 14-24-9(93090)
न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम्।
न त्वं श्रेष्ठो हि नः प्राण अपानो हि वशे तव।
प्रचचार पुनः प्राणस्ततोऽपानोऽभ्यभाषत॥ 14-24-10(93091)
उपान उवाच। 14-24-11x(7822)
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे
मयि प्रवृत्ते च पुनश्चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥ 14-24-11(93092)
ब्राह्मण उवाच। 14-24-12x(7823)
व्यानश्च तमुदानश्चि भाषमाणमथोचतुः।
अपान न त्वं श्रेष्ठोसि प्राणो हि वशगस्तव॥ 14-24-12(93093)
अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत्।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना॥ 14-24-13(93094)
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे।
मयि प्रवृत्ते च पुनश्चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥ 14-24-14(93095)
ब्राह्मण उवाच। 14-24-15x(7824)
प्रालीयत ततो व्यानः पुनश्च प्रचचार ह।
प्राणापानावुदानस्च समानश्च तमब्रुवन्॥ 14-24-15(93096)
न त्वं श्रेष्ठोसि नो व्यान समानस्तु वशे तव।
प्रचचार पुनर्व्यानः समानः पुनरब्रवीत्।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना॥ 14-24-16(93097)
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे।
मयि प्रवृत्ते च पुनश्चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥ 14-24-17(93098)
`ततः समानः प्रालिल्ये पुनश्च प्रचचार ह।
प्राणापानावुदानस्च व्यानश्चैव तमब्रवीत्।
न त्वं समान श्रेष्ठोसि व्यान एव वशे तव॥' 14-24-18(93099)
समानः प्रचचाराथ उदानस्तमुवाच ह।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना॥ 14-24-19(93100)
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे।
मयि प्रवृत्ते च पुनश्चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥ 14-24-20(93101)
ततः प्रालीयतोदानः पुनश्च प्रचचार ह।
प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन्।
उदानि न त्वं श्रेष्ठोसि व्यानि एव वशे तव॥ 14-24-21(93102)
ब्राह्मण उवाच। 14-24-22x(7825)
ततस्तानब्रवीत्सर्वान्स्मयमानः प्रजापतिः।
सर्वे श्रेष्ठा न च श्रेष्ठाः सर्वे चान्योन्यकाङ्क्षिणः॥ 14-24-22(93103)
सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यधर्मिणः।
इति तानब्रवीत्सर्वान्समवेतान्प्रजापतिः॥ 14-24-23(93104)
एकः स्थिरश्चराश्चान्ये विशेषात्पञ्च वायवः।
एक एव च सर्वात्मा बहुधाऽप्युपचीयते॥ 14-24-24(93105)
परस्परस्य सुहृदो भावयन्तः परस्परम्।
स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम्॥ ॥ 14-24-25(93106)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुर्विशोऽध्यायः॥ 24 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-24-24 बहुधाप्युपलीयते इति क.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|